हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Yuddha Kanda Sarga 100 – युद्धकाण्ड शततमः सर्गः (१००)
॥ रामरावणास्त्रपरम्परा ॥
महोदरमहापार्श्वौ हतौ दृष्ट्वा तु राक्षसौ ।
तस्मिंश्च निहते वीरे विरूपाक्षे महाबले ॥ १ ॥
आविवेश महान्क्रोधो रावणं तं महामृधे ।
सूतं सञ्चोदयामास वाक्यं चेदमुवाच ह ॥ २ ॥
निहतानाममात्यानां रुद्धस्य नगरस्य च ।
दुःखमेषोऽपनेष्यामि हत्वा तौ रामलक्ष्मणौ ॥ ३ ॥
रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम् ।
प्रशाखा यस्य सुग्रीवो जाम्बवान्कुमुदो नलः ॥ ४ ॥
मैन्दश्च द्विविदश्चैव ह्यङ्गदो गन्धमादनः ।
हनूमांश्च सुषेणश्च सर्वे च हरियूथपाः ॥ ५ ॥
स दिशो दश घोषेण रथस्यातिरथो महान् ।
नादयन्प्रययौ तूर्णं राघवं चाभ्यवर्तत ॥ ६ ॥
पूरिता तेन शब्देन सनदीगिरिकानना ।
सञ्चचाल मही सर्वा सवराहमृगद्विपा ॥ ७ ॥
तामसं स महाघोरं चकारास्त्रं सुदारुणम् ।
निर्ददाह कपीन्सर्वांस्ते प्रपेतुः समन्ततः ॥ ८ ॥
उत्पपात रजो घोरं तैर्भग्नैः सम्प्रधावितैः ।
न हि तत्सहितुं शेकुर्ब्रह्मणा निर्मितं स्वयम् ॥ ९ ॥
तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः ।
दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः ॥ १० ॥
ततो राक्षसशार्दूलो विद्राव्य हरिवाहिनीम् ।
स ददर्श ततो रामं तिष्ठन्तमपारजितम् ॥ ११ ॥
लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा ।
आलिखन्तमिवाकाशमवष्टभ्य महद्धनुः ॥ १२ ॥
पद्मपत्रविशालाक्षं दीर्घबाहुमरिन्दमम् ।
ततो रामो महातेजाः सौमित्रिसहितो बली ॥ १३ ॥
वानरांश्च रणे भग्नानापतन्तं च रावणम् ।
समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम् ॥ १४ ॥
विस्फारयितुमारेभे ततः स धनुरुत्तमम् ।
महावेगं महानादं निर्भिन्दन्निव मेदिनीम् ॥ १५ ॥
रावणस्य च बाणौघै रामविस्फारितेन च ।
शब्देन राक्षसास्ते च पेतुश्च शतशस्तदा ॥ १६ ॥
तयोः शरपथं प्राप्तो रावणो राजपुत्रयोः ।
स बभौ च यथा राहुः समीपे शशिसूर्ययोः ॥ १७ ॥
तमिच्छन्प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः ।
मुमोच धनुरायम्य शरानग्निशिखोपमान् ॥ १८ ॥
तान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता ।
बाणान्बाणैर्महातेजा रावणः प्रत्यवारयत् ॥ १९ ॥
एकमेकेन बाणेन त्रिभिस्त्रीन्दशभिर्दश ।
लक्ष्मणस्य प्रचिच्छेद दर्शयन्पाणिलाघवम् ॥ २० ॥
अभ्यतिक्रम्य सौमित्रिं रावणः समितिञ्जयः ।
आससाद ततो रामं स्थितं शैलमिवाचलम् ॥ २१ ॥
स सङ्ख्ये राममासाद्य क्रोधसंरक्तलोचनः ।
व्यसृजच्छरवर्षाणि रावणो राघवोपरि ॥ २२ ॥
शरधारास्ततो रामो रावणस्य धनुश्च्युताः ।
दृष्ट्वैवापततः शीघ्रं भल्लान्जग्राह सत्वरम् ॥ २३ ॥
तान् शरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः ।
दीप्यमानान्महाघोरान्क्रुद्धानाशीविषानिव ॥ २४ ॥
राघवो रावणं तूर्णं रावणो राघवं तदा ।
अन्योन्यं विविधैस्तीक्ष्णैः शरैरभिववर्षतुः ॥ २५ ॥
चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम् ।
बाणवेगान्समुत्क्षिप्तावन्योन्यमपारजितौ ॥ २६ ॥
तयोर्भूतानि वित्रेसुर्युगपत्सम्प्रयुध्यतोः ।
रौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः ॥ २७ ॥
सन्ततं विविधैर्बाणैर्बभूव गगनं तदा ।
घनैरिवातपापाये विद्युन्मालासमाकुलैः ॥ २८ ॥
गवाक्षितमिवाकाशं बभूव शरवृष्टिभिः ।
महावेगैः सुतीक्ष्णाग्रैर्गृध्रपत्रैः सुवाजितैः ॥ २९ ॥
शरान्धकारं तौ भीमं चक्रुतुः समरं तदा ।
गतेऽस्तं तपने चापि महामेघाविवोत्थितौ ॥ ३० ॥
बभूव तुमुलं युद्धमन्योन्यवधकाङ्क्षिणोः ।
अनासाद्यमचिन्त्यं च वृत्रवासवयोरिव ॥ ३१ ॥
उभौ हि परमेष्वासावुभौ शस्त्रविशारदौ ।
उभावस्त्रविदां मुख्यावुभौ युद्धे विचेरतुः ॥ ३२ ॥
उभौ हि येन व्रजतस्तेन तेन शरोर्मयः ।
ऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव ॥ ३३ ॥
ततः संसक्तहस्तस्तु रावणो लोकरावणः ।
नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत ॥ ३४ ॥
रौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम् ।
शिरसा धारयन्रामो न व्यथां प्रत्यपद्यत ॥ ३५ ॥
अथ मन्त्रानभिजपन्रौद्रमस्त्रमुदीरयन् ।
शरान्भूयः समादाय रामः क्रोधसमन्वितः ॥ ३६ ॥
मुमोच च महातेजाश्चापमायम्य वीर्यवान् ।
ते महामेघसङ्काशे कवचे पतिताः शराः ॥ ३७ ॥
अवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा ।
पुनरेवाथ तं रामो रथस्थं राक्षसाधिपम् ॥ ३८ ॥
ललाटे परमास्त्रेण सर्वास्त्रकुशलो रणे ।
ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः ॥ ३९ ॥
श्वसन्तो विविशुर्भूमिं रावणप्रतिकूलिताः ।
निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्छितः ॥ ४० ॥
आसुरं सुमहाघोरमस्त्रं प्रादुश्चकार ह ।
सिंहव्याघ्रमुखाश्चान्यान्कङ्ककाकमुखानपि ॥ ४१ ॥
गृध्रश्येनमुखांश्चाऽपि शृगालवदनांस्तथा ।
ईहामृगमुखांश्चान्यान्व्यादितास्यान्भयानकान् ॥ ४२ ॥
पञ्चास्याँल्लेलिहानांश्च ससर्ज निशितान् शरान् ।
शरान्खरमुखांश्चान्यान्वराहमुखसंस्थितान् ॥ ४३ ॥
श्वानकुक्कुटवक्त्रांश्च मकराशीविषाननान् ।
एतानन्यांश्च मायावी ससर्ज निशितान् शरान् ॥ ४४ ॥
रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन् ।
आसुरेण समाविष्टः सोऽस्त्रेण रघुनन्दनः ॥ ४५ ॥
ससर्जास्त्रं महोत्साहः पावकं पावकोपमः ।
अग्निदीप्तमुखान्बाणांस्तथा सूर्यमुखानपि ॥ ४६ ॥
चन्द्रार्धचन्द्रवक्त्रांश्च धूमकेतुमुखानपि ।
ग्रहनक्षत्रवक्त्रांश्च महोल्कामुखसंस्थितान् ॥ ४७ ॥
विद्युज्जिह्वोपमांश्चान्यान्ससर्ज निशितान् शरान् ।
ते रावणशरा घोरा राघवास्त्रसमाहताः ॥ ४८ ॥
विलयं जग्मुराकाशे जग्मुश्चैव सहस्रशः ।
तदस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा ॥ ४९ ॥
हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः ।
सुग्रीवप्रमुखा वीराः परिवार्य तु राघवम् ॥ ५० ॥
ततस्तदस्त्रं विनिहत्य राघवः
प्रसह्य तद्रावणबाहुनिःसृतम् ।
मुदान्वितो दाशरथिर्महाहवे
विनेदुरुच्चैर्मुदिताः कपीश्वराः ॥ ५१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे शततमः सर्गः ॥ १०० ॥
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.